३.६०.४९

नैव देवा न दैतेया न पिशाचा न राक्षसाः ।
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ॥

अन्वयः

मम my, क्रोधात् due to anger, त्रैलोक्ये in three worlds, विप्रणाशिते destroyed, देवाः gods, नैव भविष्यन्ति not exist, दैतेयाः demons, न not, पिशाचाः evil spirits, न not , राक्षसाः demons, न not.

Summary

My anger will destroy all the gods, demons and evil spirits. They will be extinghished from the three worlds.

पदच्छेदः

नैव (अव्ययः)–एव (अव्ययः)
देवादेव (१.३)
(अव्ययः)
दैतेयादैतेय (१.३)
(अव्ययः)
पिशाचापिशाच (१.३)
(अव्ययः)
राक्षसाःराक्षस (१.३)
भविष्यन्तिभविष्यन्ति (√भू लृट् प्र.पु. बहु.)
मममद् (६.१)
क्रोधात्क्रोध (५.१)
त्रैलोक्येत्रैलोक्य (७.१)
विप्रणाशितेविप्रणाशित (√विप्र-नाशय् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै दे वा दै ते या
पि शा चा राक्ष साः
वि ष्यन्ति क्रो धा
त्त्रै लो क्ये विप्र णाशि ते