३.६०.८

ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति ।
न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता ॥

अन्वयः

ततः thereafter, शोचता brooding, रामेण by Rama, पृष्टा asked, सा that, प्रियाम् about his beloved, अस्मै to him, शंस you may tell, इति this, भूतैः beings, प्रचोदिता prompted, सीताम् Sita, नाभ्यवदत् no one has said.

Summary

River Godavari (although) prompted by creatures (of Nature) to tell him about his beloved did not respond to brooding Rama.

पदच्छेदः

ततःततस् (अव्ययः)
प्रचोदिताप्रचोदित (√प्र-चोदय् + क्त, १.१)
भूतैःभूत (३.३)
शंसास्मैशंस (√शंस् लोट् म.पु. )–इदम् (४.१)
तांतद् (२.१)
प्रियाम्प्रिय (२.१)
इतिइति (अव्ययः)
(अव्ययः)
(अव्ययः)
साभ्यवदत्तद् (१.१)–अभ्यवदत् (√अभि-वद् लङ् प्र.पु. एक.)
सीतांसीता (२.१)
पृष्टापृष्ट (√प्रच्छ् + क्त, १.१)
रामेणराम (३.१)
शोचिताशोचित (√शोचय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःप्र चोदि ता भू तैः
शं सा स्मै तांप्रि यामिति
साभ्य त्सी तां
पृ ष्टा रा मे शोचि ता