३.६०.९

रावणस्य च तद्रूपं कर्माणि च दुरात्मनः ।
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥

अन्वयः

सा नदी that river, दुरात्मनः of the evilminded, रावणस्य Ravana's, तत् that, रूपम् figure, कर्माणि च actions too, ध्यात्वा thinking over, भयात् out of fear, तां वैदेहीम् about Vaidehi, न शशंस did not speak.

Summary

Remembering the evilminded Ravana's appearance and action, the river revealed nothing about Vaidehi out of fear.

पदच्छेदः

रावणस्यरावण (६.१)
(अव्ययः)
तद्तद् (२.१)
रूपंरूप (२.१)
कर्माणिकर्मन् (२.३)
(अव्ययः)
दुरात्मनःदुरात्मन् (६.१)
ध्यात्वाध्यात्वा (√ध्या + क्त्वा)
भयात्भय (५.१)
तुतु (अव्ययः)
वैदेहींवैदेही (२.१)
सातद् (१.१)
नदीनदी (१.१)
(अव्ययः)
शशंसशशंस (√शंस् लिट् प्र.पु. एक.)
ताम्तद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य द्रू पं
र्माणिदु रात्म नः
ध्या त्वा यात्तु वै दे हीं
सा दी शं ताम्