३.६१.१५

न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।
कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि ॥

अन्वयः

कोसलेन्द्र lord of Kosala, Rama, त्रिदशेश्वराः gods, ते to you, पत्नीम् your wife, साम्ना with gentle request, न प्रदास्यन्ति not restore her, चेत् if so, ततः then, पश्चात् later, प्राप्तकालम् at the right time, करिष्यसि will take action.

Summary

O lord of Kosala when gods do not restore Sita on request, then you can think of taking action at the appropriate time.

पदच्छेदः

(अव्ययः)
चेत्चेद् (अव्ययः)
साम्नासामन् (३.१)
प्रदास्यन्तिप्रदास्यन्ति (√प्र-दा लृट् प्र.पु. बहु.)
पत्नींपत्नी (२.१)
तेत्वद् (६.१)
त्रिदशेश्वराःत्रिदश–ईश्वर (१.३)
कोसलेन्द्रकोसल–इन्द्र (८.१)
ततःततस् (अव्ययः)
पश्चात्पश्चात् (अव्ययः)
प्राप्तकालंप्राप्त (√प्र-आप् + क्त)–काल (२.१)
करिष्यसिकरिष्यसि (√कृ लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चे त्सा म्नाप्र दा स्यन्ति
त्नीं तेत्रि शेश्व राः
को लेन्द्र तः श्चा
त्प्राप्त का लं रिष्यसि