३.६२.१९

दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् ।
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे ॥

अन्वयः

इक्ष्वाकुवृषभ among the Ikshvakus, त्वम् you, दिव्यम् divine, मानुषं च mortal, आत्मनः yourself, पराक्रमम् powers, अवेक्ष्य after knowing, द्विषताम् of the enemies, वधे in killing, यतस्व make efforts.

Summary

O bull among the Ikshvakus, weigh your divine and human prowess before you try to kill your enemies.

पदच्छेदः

दिव्यंदिव्य (२.१)
(अव्ययः)
मानुषंमानुष (२.१)
चैवम् (अव्ययः)–एवम् (अव्ययः)
आत्मनश्आत्मन् (६.१)
(अव्ययः)
पराक्रमम्पराक्रम (२.१)
इक्ष्वाकुवृषभावेक्ष्यइक्ष्वाकु–वृषभ (८.१)–अवेक्ष्य (√अव-ईक्ष् + ल्यप्)
यतस्वयतस्व (√यत् लोट् म.पु. )
द्विषतांद्विषत् (√द्विष् + शतृ, ६.३)
वधेवध (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि व्यं मानु षं चै
मात्मश्च राक्र मम्
क्ष्वाकुवृ भा वेक्ष्य
स्वद्वि तां धे