३.६२.८

महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितः ।
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥

अन्वयः

महर्षिः sage, यः who, वसिष्ठः Vasistha, यः that, नः पितुः our father's, पुरोहितः priest, अस्य his, अह्ना one day, पुत्रशतम् one hundred sons, जज्ञे gave birth to, पुनः again, तथैव in the same way, हतम् killed.

Summary

To sage Vasistha, our father's priest, were born a hundred sons in a day.But all of them were killed in one day the same way.

पदच्छेदः

महर्षयोमहत्–ऋषि (१.३)
वसिष्ठस्वसिष्ठ (१.१)
तुतु (अव्ययः)
यःयद् (१.१)
पितुर्पितृ (६.१)
नःमद् (६.३)
पुरोहितःपुरोहित (१.१)
अह्नाअहर् (३.१)
पुत्रशतंपुत्र–शत (२.१)
जज्ञेजज्ञे (√जन् लिट् प्र.पु. एक.)
तथैवास्यतथा (अव्ययः)–एव (अव्ययः)–इदम् (६.१)
पुनर्पुनर् (अव्ययः)
हतम्हत (√हन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ष यो सि ष्ठस्तु
यःपि तु र्नःपु रोहि तः
ह्ना पुत्र तं ज्ञे
थै वास्यपुर्ह तम्