३.६३.१

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
सारग्राही महासारं प्रतिजग्राह राघवः ॥

अन्वयः

सारग्राही who can grasp the essence, राघवः Rama, पूर्वज अपि being elder, लक्ष्मणेन by Lakshmana, उक्तमात्रः तु only when told by, महासारम् the great essence, सुभाषितम् wise counsel, प्रतिजग्राह accepted.

Summary

Even though Rama was elder, he could grasp the quintessence of the wise counsel only after Lakshmana had said it.

पदच्छेदः

पूर्वजोपूर्वज (१.१)
ऽप्य्अपि (अव्ययः)
उक्तमात्रस्उक्त (√वच् + क्त)–मात्र (१.१)
तुतु (अव्ययः)
लक्ष्मणेनलक्ष्मण (३.१)
सुभाषितम्सुभाषित (२.१)
सारग्राहीसार–ग्राहिन् (१.१)
महासारंमहत्–सार (२.१)
प्रतिजग्राहप्रतिजग्राह (√प्रति-ग्रह् लिट् प्र.पु. एक.)
राघवःराघव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पूर्व जो ऽप्युक्त मा त्रस्तु
क्ष्म णेसु भाषि तम्
सा ग्रा ही हा सा रं
प्रति ग्रा रा वः