३.६३.२

संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः ।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥

अन्वयः

महाबाहुः longarmed, रामः Rama, प्रवृत्तम् risen, आत्मनः his own, कोपम् anger, सन्निगृह्य after restraining, चित्रम् wonderful, धनुः bow, अवष्टभ्य leaning over, लक्ष्मणम् to Lakshmana, अब्रवीत् said.

Summary

Restraining his anger, the longarmed Rama leaned over his wonderful bow and spoke to Lakshmana:

पदच्छेदः

संनिगृह्यसंनिगृह्य (√संनि-ग्रह् + ल्यप्)
महाबाहुःमहत्–बाहु (१.१)
प्रवृद्धंप्रवृद्ध (√प्र-वृध् + क्त, २.१)
कोपम्कोप (२.१)
आत्मनःआत्मन् (६.१)
अवष्टभ्यअवष्टभ्य (√अव-स्तम्भ् + ल्यप्)
धनुश्धनुस् (२.१)
चित्रंचित्र (२.१)
रामोराम (१.१)
लक्ष्मणम्लक्ष्मण (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

संनि गृह्य हा बा हुः
प्र वृ द्धं को मात्म नः
ष्टभ्य नु श्चि त्रं
रा मोक्ष्मब्र वीत्