३.६३.१४

यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥

अन्वयः

आयुष्मन् longlived one, याम् whom, महावने in this great forest, ओषधिमिव like herbal medicine, अन्वेषसि you are searching , सा देवी that queen, मम my, प्राणाः च life also, उभयम् both, रावणेन by Ravana, हृतम् is taken away.

Summary

O Longlived one she who you are searching in the forest like herbal medicine has been carried away by Ravana along with my life.

पदच्छेदः

याम्यद् (२.१)
ओषधिम्ओषधि (२.१)
इवायुष्मन्न्इव (अव्ययः)–आयुष्मत् (८.१)
महावनेमहत्–वन (७.१)
सातद् (१.१)
देवीदेवी (१.१)
मममद् (६.१)
(अव्ययः)
प्राणाप्राण (१.३)
रावणेनोभयंरावण (३.१)–उभय (१.१)
हृतम्हृत (√हृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या मोधिमि वा युष्म
न्न न्वेसि हा ने
सा दे वी प्रा णा
रा णे नो यंहृ तम्