३.६४.२३

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ।
मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ॥

अन्वयः

अयं पतगेश्वरः this lord of the birds, पितृपैतामहम् ancestral, महत् great, गृध्रराज्यम् kingdom of vultures, परित्यज्य left, मम हेतोः for my sake, प्राणान् life, मुमोच gave up.

Summary

This lord of the birds left his ancestral kingdom of viltures and gave up life for my sake.

पदच्छेदः

गृध्रराज्यंगृध्र–राज्य (२.१)
परित्यज्यपरित्यज्य (√परि-त्यज् + ल्यप्)
पितृपैतामहंपितृपैतामह (२.१)
महत्महत् (२.१)
मममद् (६.१)
हेतोर्हेतु (५.१)
अयंइदम् (१.१)
प्राणान्प्राण (२.३)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
पतगेश्वरःपतग–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृध्र रा ज्यं रि त्यज्य
पितृ पै ता हं हत्
हे तो यं प्रा णा
न्मु मो गेश्व रः