३.६४.२४

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥

अन्वयः

सौमित्रे Lakshmana, शूराः heroes, शरण्याः protectors, धर्मचारिणः rigteous people, साधवः good people, सर्वत्र all over, तिर्यग्योनिगतेष्वपि even among animals and birds, दृश्यन्ते खलु are seen.

Summary

O Lakshmana valiant souls and protectors, being righteous and honest are found even among animals and birds.

पदच्छेदः

सर्वत्रसर्वत्र (अव्ययः)
खलुखलु (अव्ययः)
दृश्यन्तेदृश्यन्ते (√दृश् प्र.पु. बहु.)
साधवोसाधु (१.३)
धर्मचारिणःधर्म–चारिन् (१.३)
शूराःशूर (१.३)
शरण्याःशरण्य (१.३)
सौमित्रेसौमित्रि (८.१)
तिर्यग्योनिगतेष्व्तिर्यग्योनि–गत (√गम् + क्त, ७.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वत्रलु दृ श्य न्ते
सा वोर्म चारि णः
शू राः ण्याः सौ मि त्रे
ति र्य ग्योनि तेष्वपि