३.६४.३४

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।
तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह ॥

अन्वयः

तत् that, यत् whatever, द्विजातयः brahmins, प्रेतस्य for the dead, मर्त्यस्य for a mortal, स्वर्गगमनम् for ascending to heaven, कथयन्ति they utter, तत् all that, पित्र्यम् pertaining to father, तस्य that, जजाप muttered.

Summary

Rama muttered the mantras recommended by brahmins for dead mortals as one would do for his father, to help him ascend to heaven.

पदच्छेदः

यत्यद् (२.१)
तत्तद् (२.१)
प्रेतस्यप्रेत (√प्र-इ + क्त, ६.१)
मर्त्यस्यमर्त्य (६.१)
कथयन्तिकथयन्ति (√कथय् लट् प्र.पु. बहु.)
द्विजातयःद्विजाति (१.३)
तत्तद् (२.१)
स्वर्गगमनंस्वर्ग–गमन (२.१)
तस्यतद् (६.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
रामोराम (१.१)
जजापजजाप (√जप् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त त्प्रेस्य र्त्यस्य
न्तिद्वि जा यः
त्स्वर्ग नंस्य
क्षि प्रं रा मो जा