३.६४.६

कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् ।
सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥

अन्वयः

द्विजोत्तम best of birds, चन्द्रसङ्काशम् Moon like, मनोहरम् delightful, तत् मुखम् her face, कथम् how, आसीत् it was, तस्मिन् काले at the time of abduction, सीतया by Sita, कानि what, उक्तानि did she say?

Summary

O best of birds how did her delightful, Moonlike face look when she was hijacked. What did she say at that time?

पदच्छेदः

कथंकथम् (अव्ययः)
तच्तद् (१.१)
चन्द्रसंकाशंचन्द्र–संकाश (१.१)
मुखम्मुख (१.१)
आसीन्आसीत् (√अस् लङ् प्र.पु. एक.)
मनोहरम्मनोहर (१.१)
सीतयासीता (३.१)
कानि (१.३)
चोक्तानि (अव्ययः)–उक्त (√वच् + क्त, १.३)
तस्मिन्तद् (७.१)
कालेकाल (७.१)
द्विजोत्तमद्विज–उत्तम (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थं च्चन्द्र सं का शं
मु मा सीन्म नो रम्
सी या कानि चो क्तानि
स्मि न्का लेद्वि जोत्त