३.६४.८

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।
वाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥

अन्वयः

अनन्तरम् incessantly, दीनात्मा a piteous soul, जटायुः Jatayu, विलपन्तम् wailing, रामम् to Rama, उद्वीक्ष्य seeing, अथ this, अतिसन्नया in a faint voice, वाचा spoke, इदम् these, अब्रवीत् said.

Summary

Thereafter Jatayu, a piteous soul, looked up at Rama who was crying incessantly and said this in a feeble voice:

पदच्छेदः

तम्तद् (२.१)
उद्वीक्ष्याथउद्वीक्ष्य (√उद्वि-ईक्ष् + ल्यप्)–अथ (अव्ययः)
दीनात्मादीन–आत्मन् (१.१)
विलपन्तम्विलपत् (√वि-लप् + शतृ, २.१)
अनन्तरम्अनन्तर (२.१)
वाचातिसन्नयावाच् (३.१)–अतिसन्न (३.१)
रामंराम (२.१)
जटायुर्जटायुस् (१.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु द्वी क्ष्या दी ना त्मा
विन्तन्त रम्
वा चातिन्न या रा मं
टायुरिब्र वीत्