३.६५.१०

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ।
ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥

अन्वयः

आर्य O noble one, तस्मात् therefore, त्वम् you, सज्जीभव be ready, हितम् good, वचनम् words, कुरुष्व you may act upon, निमित्तानि omens, सद्यः presently, सम्भ्रमम् fear, मम I am, शंसन्ति इव हि as though they are forecasting.

Summary

O noble brother be alert. Heed my words of good advice. The bad omens I see presage perils.

पदच्छेदः

तस्मात्तस्मात् (अव्ययः)
सज्जीभवार्यसज्जीभव (√सज्जी-भू लोट् म.पु. )–आर्य (८.१)
त्वंत्वद् (१.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
वचनंवचन (२.१)
हितम्हित (२.१)
ममैवमद् (६.१)–एव (अव्ययः)
हिहि (अव्ययः)
निमित्तानिनिमित्त (१.३)
सद्यःसद्यस् (अव्ययः)
शंसन्तिशंसन्ति (√शंस् लट् प्र.पु. बहु.)
सम्भ्रमम्सम्भ्रम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा त्स ज्जी वा र्य त्वं
कु रुष्व नंहि तम्
मैहिनि मि त्तानि
द्यः शंन्ति संभ्र मम्