३.६५.११

एष वञ्चुलको नाम पक्षी परमदारुणः ।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥

अन्वयः

परमदारुणः extremely dreadful, वञ्चुलको नाम by name Vanchulaka, एषः पक्षी this bird, युद्धे in strife, आवयोः both of us, विजयम् triumph, शंसन्निव as though telling, विनर्दति cries loudly.

Summary

This vanchulaka bird's loud and dreadful screams suggest our triumph in war.

पदच्छेदः

एषएतद् (१.१)
वञ्चुलकोवञ्चुलक (१.१)
नामनाम (अव्ययः)
पक्षीपक्षिन् (१.१)
परमदारुणःपरम–दारुण (१.१)
आवयोर्मद् (६.२)
विजयंविजय (२.१)
युद्धेयुद्ध (७.१)
शंसन्न्शंसत् (√शंस् + शतृ, १.१)
इवइव (अव्ययः)
विनर्दतिविनर्दति (√वि-नर्द् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ञ्चु को ना
क्षी दारु णः
योर्वि यं यु द्धे
शंन्निविर्दति