३.६५.९

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥

अन्वयः

मे my, बाहुः arm, दृढम् strongly, स्पन्दते is throbbing, मनः mind, उद्विग्नमिव is as if agitated, प्रायशः probably, अनिष्टानि undesirable ones, निमित्तानि omens, उपलक्षये I am observing.

Summary

My arm is throbbing heavily. My mind is agitated. The omens I see foretell some undesirable events.

पदच्छेदः

स्पन्दतेस्पन्दते (√स्पन्द् लट् प्र.पु. एक.)
मेमद् (६.१)
दृढंदृढम् (अव्ययः)
बाहुर्बाहु (१.१)
उद्विग्नम्उद्विग्न (√उत्-विज् + क्त, १.१)
इवइव (अव्ययः)
मेमद् (६.१)
मनःमनस् (१.१)
प्रायशश्प्रायशस् (अव्ययः)
चाप्य् (अव्ययः)–अपि (अव्ययः)
अनिष्टानिअनिष्ट (२.३)
निमित्तान्य्निमित्त (२.३)
उपलक्षयेउपलक्षये (√उप-लक्षय् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्पन्द ते मेदृ ढं बाहु
रु द्विग्नमि मे नः
प्रा श्चाप्य नि ष्टानि
नि मि त्तान्युक्ष ये