३.६५.१२

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।
संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥

अन्वयः

तयोः both, एवम् in that manner, ओजसा with strength, सर्वम् all over, तत् वनम् that forest, अन्वेषतोः while both were searching, तत् वनम् that forest, प्रभञ्जन्निव as if shattering, विपुलः very big, शब्दः sound, संजज्ञे broke out.

Summary

As both the brothers with great prowess were searching for Sita all over, a huge sound exploded as if shattering the forest.

पदच्छेदः

तयोर्तद् (६.२)
अन्वेषतोर्अन्वेषत् (√अनु-इष् + शतृ, ६.२)
एवंएवम् (अव्ययः)
सर्वंसर्व (२.१)
तद्तद् (२.१)
वनम्वन (२.१)
ओजसाओजस् (३.१)
संजज्ञेसंजज्ञे (√सम्-जन् लिट् प्र.पु. एक.)
विपुलःविपुल (१.१)
शब्दःशब्द (१.१)
प्रभञ्जन्न्प्रभञ्जत् (√प्र-भञ्ज् + शतृ, १.१)
इवइव (अव्ययः)
तद्तद् (२.१)
वनम्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यो न्वे तो रे वं
र्वंद्व मो सा
सं ज्ञेविपु लः ब्दः
प्र ञ्जन्निद्व नम्