३.६५.१५

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।
विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ॥

अन्वयः

ततः then, तौ उभौ both of them, तत्र there, प्रमुखे in front, स्थितम् stood, विवृद्धम् very well grown, अशिरोग्रीवम् without head and neck, उदरे मुखम् with his face in the stomach, कबन्धम् trunk, आसेदतुः reached.

Summary

Then both the brothers saw a very tall figure with a trunk that stood facing them. He had neither neck nor head. His face was in the stomach.

पदच्छेदः

आसेदतुस्आसेदतुः (√आ-सद् लिट् प्र.पु. द्वि.)
ततस्ततस् (अव्ययः)
तत्रतत्र (अव्ययः)
ताव्तद् (१.२)
उभौउभ् (१.२)
प्रमुखेप्रमुख (७.१)
स्थितम्स्थित (√स्था + क्त, २.१)
विवृद्धम्विवृद्ध (√वि-वृध् + क्त, २.१)
अशिरोग्रीवंअशिरस्–ग्रीवा (२.१)
कबन्धम्कबन्ध (२.१)
उदरेउदर (७.१)
मुखम्मुख (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

से तुस्त स्तत्र
तावु भौप्रमु खेस्थि तम्
वि वृद्धशि रो ग्री वं
न्धमु रेमु खम्