३.६५.१८

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ।
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ॥

पदच्छेदः

महादंष्ट्रोपपन्नंमहत्–दंष्ट्र–उपपन्न (√उप-पद् + क्त, २.१)
तंतद् (२.१)
लेलिहानंलेलिहान (२.१)
महामुखम्महत्–मुख (२.१)
भक्षयन्तंभक्षयत् (√भक्षय् + शतृ, २.१)
महाघोरान्महत्–घोर (२.३)
ऋक्षसिंहमृगद्विपान्ऋक्ष–सिंह–मृग–द्विप (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा दं ष्ट्रो न्नं तं
लेलि हा नं हामु खम्
क्ष न्तं हा घो रा
नृक्ष सिंमृद्वि पान्