३.६५.२४

तावुवाच महाबाहुः कबन्धो दानवोत्तमः ।
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥

पदच्छेदः

ताव्तद् (२.२)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
महाबाहुःमहत्–बाहु (१.१)
कबन्धोकबन्ध (१.१)
दानवोत्तमःदानव–उत्तम (१.१)
कौ (१.२)
युवांत्वद् (१.२)
वृषभस्कन्धौवृषभ–स्कन्ध (१.२)
महाखड्गधनुर्धरौमहत्–खड्ग–धनुस्–धर (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तावु वा हा बा हुः
न्धो दा वोत्त मः
कौयु वांवृ स्क न्धौ
हाड्ग नुर्ध रौ