३.६६.१४

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥

अन्वयः

नरव्याघ्रौ two tigers among men, वाम् to you, स्वागतम् welcome, अहम् I, दिष्ट्या luckily, पश्यामि I see, दिष्ट्या by my luck, युवाभ्याम् by both of you, मे my, इमौ these, बाहुबन्धनौ that arms which bound you, निकृत्तौ are cut off.

M N Dutt

O two best of men, you are welcome! By my good luck it is that I do behold you. By my good fortune you have dissevered my shoulders today.

Summary

O tigers among men you are welcome. It is my good luck that I am able to see you. It is my good luck also that the arms that bound you have been amputated.

पदच्छेदः

स्वागतंस्वागत (१.१)
वांत्वद् (६.२)
नरव्याघ्रौनर–व्याघ्र (८.२)
दिष्ट्यादिष्टि (३.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
चाप्य् (अव्ययः)–अपि (अव्ययः)
अहम्मद् (१.१)
दिष्ट्यादिष्टि (३.१)
चेमौ (अव्ययः)–इदम् (१.२)
निकृत्तौनिकृत्त (√नि-कृत् + क्त, १.२)
मेमद् (६.१)
युवाभ्यांत्वद् (३.२)
बाहुबन्धनौबाहु–बन्धन (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्वा तं वां व्या घ्रौ
दि ष्ट्या श्यामि चाप्य हम्
दि ष्ट्या चे मौनि कृ त्तौ मे
यु वा भ्यां बाहुन्ध नौ