३.६७.१

पुरा राम महाबाहो महाबलपराक्रम ।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ।
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥

अन्वयः

महाबाहो longarmed, महाबलपराक्रम strong and powerful, राम O Rama, पुरा in the past, सोमस्य the Moon's, शक्रस्य Indra's, यथा as, सूर्यस्य च the Sun's, वपुः body, यथा like that, मम my,रूपम् form, अचिन्त्यम् inconceivable, त्रिषु लोकेषु in the three worlds, विश्रुतम् renowned, आसीत् it was.

M N Dutt

O Mighty armed Rāma of great prowess, formerly my beauty, beyond conception, was known all over the three worlds, like to the beauty of the Sun, the Moon and Indra. I used to frighten everywhere the ascetics living in the forest by turning this my beauty into a terrific form.

Summary

O longarmed, mighty and powerful Rama in the past I was handsome like the Moon or Indra or the Sun inconceivable to all the three worlds.

पदच्छेदः

पुरापुरा (अव्ययः)
रामराम (८.१)
महाबाहोमहत्–बाहु (८.१)
महाबलपराक्रममहत्–बल–पराक्रम (८.१)
रूपम्रूप (१.१)
आसीन्आसीत् (√अस् लङ् प्र.पु. एक.)
ममाचिन्त्यंमद् (६.१)–अचिन्त्य (१.१)
त्रिषुत्रि (७.३)
लोकेषुलोक (७.३)
विश्रुतम्विश्रुत (√वि-श्रु + क्त, १.१)
यथायथा (अव्ययः)
सोमस्यसोम (६.१)
शक्रस्यशक्र (६.१)
सूर्यस्यसूर्य (६.१)
(अव्ययः)
यथायथा (अव्ययः)
वपुःवपुस् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
पु रा रा हा बा हो हा
राक्र रू मा सीन्म मा चि न्त्यं
त्रिषु लो केषु विश्रु तम् था सो
स्य क्रस्य सू र्यस्य था पुः