३.६७.१६

स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ।
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥

अन्वयः

राघव Rama, त्वम् you, सः रामः that Rama, असि you are, ते भद्रम् be blessed, महर्षिणा by the seer, तत्त्वम् truly, एवम् in that way, यथा as, उक्तम् stated, अहम् I, अन्येन by others, हन्तुम् be attacked, शक्यः possible, न not.

Summary

You are that Rama. Be blessed. As stated by the seer I cannot be really killed by any one except you.

पदच्छेदः

तद् (१.१)
त्वंत्वद् (१.१)
रामोराम (१.१)
ऽसिअसि (√अस् लट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
नाहम् (अव्ययः)–मद् (१.१)
अन्येनअन्य (३.१)
राघवराघव (८.१)
शक्योशक्य (१.१)
हन्तुंहन्तुम् (√हन् + तुमुन्)
यथातत्त्वम्यथातत्त्वम् (अव्ययः)
एवम्एवम् (अव्ययः)
उक्तंउक्त (√वच् + क्त, १.१)
महर्षिणामहत्–ऋषि (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वं रा मोऽसि द्रं ते
ना न्ये रा
क्यो न्तुं थात्त्व
मे मु क्तंर्षि णा