३.६७.२५

दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ।
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥

अन्वयः

मे to me, दिव्यम् divine, ज्ञानम् wisdom, नास्ति I do not have, मैथिलीम् Maithili, नाभिजानामि I do not know, दग्धः burnt one, स्वं रूम् my original form, आस्थितः getting, ताम् her, यः whoever, ज्ञास्यति know of her, तम् him, वक्ष्ये I will reveal.

M N Dutt

I am not gifted with divine fore-sight and therefore do not know where Maithilī is. I shall let you know of him who shall be able to tell you all about her, after I resume my original shape, being burnt (by you). I shall furthermore tell you, O Rāma, who knows that Räksasa.

Summary

I do not have divine wisdom (now). Nor do I know Sita. When you cremate me, I shall assume my original form and will tell you the name of the person who knows it.

पदच्छेदः

दिव्यम्दिव्य (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
(अव्ययः)
मेमद् (६.१)
ज्ञानंज्ञान (१.१)
नाभिजानामि (अव्ययः)–अभिजानामि (√अभि-ज्ञा लट् उ.पु. )
मैथिलीम्मैथिली (२.१)
यस्यद् (१.१)
तांतद् (२.१)
ज्ञास्यतिज्ञास्यति (√ज्ञा लृट् प्र.पु. एक.)
तंतद् (२.१)
वक्ष्येवक्ष्ये (√वच् लृट् उ.पु. )
दग्धःदग्ध (√दह् + क्त, १.१)
स्वंस्व (२.१)
रूपम्रूप (२.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दिव्यस्ति मे ज्ञा नं
नाभि जा नामि मैथि लीम्
स्तां ज्ञास्यति तं क्ष्ये
ग्धः स्वं रू मास्थि तः