३.६७.४

तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।
एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥

अन्वयः

प्रेक्ष्य seeing me, घोरशापाभिधायिना pronounced a dreadful curse, तेन by him, अहम् I, एवम् in that way, उक्तः said, ते you, नृशंसम् mean, विगर्हितम् dispising, एतत् this, रूपमेव form only, अस्तु it may be.

Summary

Seeing me he pronounced a dreadful curse on me saying, 'You will get a cruel, despicable form.'

पदच्छेदः

तेनाहम्तद् (३.१)–मद् (१.१)
उक्तःउक्त (√वच् + क्त, १.१)
प्रेक्ष्यैवंप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)–एवम् (अव्ययः)
घोरशापाभिधायिनाघोर–शाप–अभिधायिन् (३.१)
एतद्एतद् (१.१)
एवएव (अव्ययः)
नृशंसंनृशंस (१.१)
तेत्वद् (६.१)
रूपम्रूप (१.१)
अस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
विगर्हितम्विगर्हित (√वि-गर्ह् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ना मु क्तः प्रे क्ष्यै वं
घो शा पाभि धायि ना
देनृ शं सं ते
रूस्तुविर्हि तम्