३.६८.१५

शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ।
कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति ॥

अन्वयः

युवाम् you both, अद्य now, तस्य his, चिकीर्षितम् desired, कार्यम् his work, कर्तुम् to do, शक्तौ हि you both have the ability, कृतार्थो वा whether his work is done, अकृतार्थो वा or not done, तव your, कृत्यम् work, करिष्यति he will do.

Summary

You are both young and able to do the work he wants. Whether his work is done or not, he will fulfil your task.

पदच्छेदः

शक्तौशक्त (√शक् + क्त, १.२)
ह्य्हि (अव्ययः)
अद्यअद्य (अव्ययः)
युवांत्वद् (१.२)
कर्तुंकर्तुम् (√कृ + तुमुन्)
कार्यंकार्य (२.१)
तस्यतद् (६.१)
चिकीर्षितम्चिकीर्षित (२.१)
कृतार्थोकृतार्थ (१.१)
वाकृतार्थोवा (अव्ययः)–अकृतार्थ (१.१)
वावा (अव्ययः)
कृत्यंकृत्य (२.१)
तवत्वद् (६.१)
करिष्यतिकरिष्यति (√कृ लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्तौ ह्यद्ययु वां र्तुं
का र्यंस्यचि कीर्षि तम्
कृ ता र्थो वाकृ ता र्थो वा
कृ त्यं रिष्यति