३.६८.१६

स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ।
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ॥

अन्वयः

ऋक्षरजसः Riksharaja's, पुत्रः son, भास्करस्य Sungod's, औरसःपुत्रः lawful son, सः he, वालिना Valin, कृतकिल्बिषः developing enmity, शङ्कितः apprehending danger, पम्पाम् on the banks of Pampa, अटति roaming.

Summary

Born of Riksharaja, he is the offspring of the Sungod. He has developed enmity with Vali, and is roaming about the banks of Pampa, suspecting danger from Vali.

पदच्छेदः

तद् (१.१)
ऋक्षरजसःऋक्ष–रजस् (६.१)
पुत्रःपुत्र (१.१)
पम्पाम्पम्पा (२.१)
अटतिअटति (√अट् लट् प्र.पु. एक.)
शङ्कितःशङ्कित (√शङ्क् + क्त, १.१)
भास्करस्यौरसःभास्कर (६.१)–औरस (१.१)
पुत्रोपुत्र (१.१)
वालिनावालिन् (३.१)
कृतकिल्बिषःकृत (√कृ + क्त)–किल्बिष (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष सः पु त्रः
म्पातिङ्कि तः
भास्क स्यौ सः पु त्रो
वालि नाकृ किल्बि षः