३.६९.२९

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।
निवृत्ताः संविगाहन्ते वनानि वनगोचराः ॥

अन्वयः

वनगोचराः wandering in the forest, ते they, विमलम् pure, शीतम् cool, अव्ययम् plenty, पानीयम् water, पीत्वा drinking, निर्वृताः contented, वनानि in the forest, (सं)विगाहन्ते plunge into.

Summary

The wandering elephants of the forest drink plentiful water, pure and cool, from Pampa and contented, plunge into the forest.

पदच्छेदः

तेतद् (१.३)
तत्रतत्र (अव्ययः)
पीत्वापीत्वा (√पा + क्त्वा)
पानीयंपानीय (२.१)
विमलंविमल (२.१)
शीतम्शीत (२.१)
अव्ययम्अव्यय (२.१)
निवृत्ताःनिवृत्त (√नि-वृत् + क्त, १.३)
संविगाहन्तेसंविगाहन्ते (√संवि-गाह् लट् प्र.पु. बहु.)
वनानिवन (२.३)
वनगोचराःवन–गोचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेत्र पी त्वा पा नी यं
वि लं शीव्य यम्
नि वृ त्ताः संवि गा न्ते
नानि गो राः