३.७०.२४

तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ।
मुनीनामाश्रंमो येषामहं च परिचारिणी ॥

अन्वयः

आश्रमः hermitage, येषां मुनीनाम् of those seers (to whom this hermitage belongs), अहं च I, परिचारिणी I am a servant, भावितात्मनाम् realisers of supreme spirit, तेषाम् their, समीपम् near, गन्तुम् to go, इच्छामि I desire.

M N Dutt

I wish to approach those pure-souled ascetics, whom I used to wait upon, and whom these asylums belong to.

Summary

I wish to reach those realisers of the Supreme Spirit whom I served and to whom this hermitage belonged.

पदच्छेदः

तेषाम्तद् (६.३)
इच्छाम्य्इच्छामि (√इष् लट् उ.पु. )
अहंमद् (१.१)
गन्तुंगन्तुम् (√गम् + तुमुन्)
समीपंसमीप (२.१)
भावितात्मनाम्भावितात्मन् (६.३)
मुनीनाम्मुनि (६.३)
आश्रमोआश्रम (१.१)
येषाम्यद् (६.३)
अहंमद् (१.१)
(अव्ययः)
परिचारिणीपरिचारिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षा मि च्छाम्य हं न्तुं
मी पं भावि तात्म नाम्
मु नी ना मा श्रं मो ये षा
हंरि चारि णी