३.७०.४

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥

अन्वयः

ततः then, तौ both, पम्पायाः Pampa, पुष्करिण्याः of the tank, पश्चिमम् western, तीरम् bank, आसाद्य reached, तत्र there, शबर्याः of Sabari, रम्यम् delightful, आश्रमम् hermitage, अपश्यताम् observed.

M N Dutt

Passing the night on the summit of a hill those two descendants of Raghu arrived at the western bank of Pampā and espied the pleasant asylum of Savari.

Summary

Both reached the west bank of lake Pampa and saw the delightful hermitage of Sabari.

पदच्छेदः

तौतद् (१.२)
पुष्करिण्याःपुष्करिन् (६.१)
पम्पायास्पम्पा (६.१)
तीरम्तीर (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
पश्चिमम्पश्चिम (२.१)
अपश्यतांअपश्यताम् (√पश् लङ् प्र.पु. द्वि.)
ततस्ततस् (अव्ययः)
तत्रतत्र (अव्ययः)
शबर्याशबरी (६.१)
रम्यम्रम्य (२.१)
आश्रमम्आश्रम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौ पुष्क रि ण्याः म्पा या
स्ती मा साद्यश्चि मम्
श्य तां स्तत्र
र्याम्य माश्र मम्