३.७०.५

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥

अन्वयः

तौ they both, तम् that, आश्रमम् hermitge, आसाद्य after reaching, बहुभिः with many, द्रुमैः with many trees, आवृतम् surrounded, सुरम्यम् very beautiful, अभिवीक्षन्तौ both looking at, शबरीम् Sabari's, अभ्युपेयतुः went towards.

M N Dutt

Getting at that charming hermitage covered on all sides with trees and casting their looks around they beheld that female mendicant-Savari.

Summary

Both reached the beautiful hermitage full of many kinds of trees. There they saw Sabari, and went towards her.

पदच्छेदः

तौतद् (२.२)
तम्तद् (२.१)
आश्रमम्आश्रम (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
द्रुमैर्द्रुम (३.३)
बहुभिर्बहु (३.३)
आवृतम्आवृत (√आ-वृ + क्त, २.१)
सुरम्यम्सु (अव्ययः)–रम्य (२.१)
अभिवीक्षन्तौअभिवीक्षत् (√अभिवि-ईक्ष् + शतृ, १.२)
शबरीम्शबरी (२.१)
अभ्युपेयतुःअभ्युपेयतुः (√अभ्युप-इ लिट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौ माश्र मा साद्य
द्रु मैर्बहुभि रावृ तम्
सुम्यभि वी क्ष न्तौ
रीभ्यु पे तुः