३.७१.१०

आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ।
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥

अन्वयः

ततः then, विशाम्पतिः lord of men, सः he, प्रभुः lord, तस्मात् from that, आश्रमात् from that hermitage, निष्क्रम्य on departing , ततः then, लक्ष्मणेन सह with Lakshmana, पम्पाम् to Pampa, आजगाम went.

Summary

Then Rama the lord of men along with Lakshmana departed from the hermitage and went to Pampa.

पदच्छेदः

आश्रमात्आश्रम (५.१)
तुतु (अव्ययः)
ततस्ततस् (अव्ययः)
तस्मान्तद् (५.१)
निष्क्रम्यनिष्क्रम्य (√निः-क्रम् + ल्यप्)
तद् (१.१)
विशांविश् (६.३)
पतिःपति (१.१)
आजगामआजगाम (√आ-गम् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
पम्पांपम्पा (२.१)
लक्ष्मणेनलक्ष्मण (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्र मात्तु स्त स्मा
न्नि ष्क्रम्यवि शां तिः
गा तः म्पां
क्ष्म णे हाभि भूः