३.८.१५

तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः ।
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥

अन्वयः

तदा then, तस्मिन् in that, आश्रमपदे at the hermitage, पुण्ये holy, तपसि in penance, तिष्ठतः practising, निशितः a sharp, उत्तमः best, सः खङ्ग: that sword, न्यासविधिना as a trust, दत्तः was deposited.

M N Dutt

And in that asylum, that excellent scimitar was deposited as a trust with that righteous person practising asceticisin.

Summary

Then while the sage was practising penance at the hermitage, he gave him that excellent sword to be kept in trust.

पदच्छेदः

तस्मिंस्तद् (७.१)
तदाश्रमपदेतद्–आश्रम–पद (७.१)
निहितःनिहित (√नि-धा + क्त, १.१)
खड्गखड्ग (१.१)
उत्तमःउत्तम (१.१)
तद् (१.१)
न्यासविधिनान्यास–विधि (३.१)
दत्तःदत्त (√दा + क्त, १.१)
पुण्येपुण्य (७.१)
तपसितपस् (७.१)
तिष्ठतःतिष्ठत् (√स्था + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिंस्त दाश्र दे
निहि तःड्गत्त मः
न्याविधि ना त्तः
पु ण्येसि तिष्ठ तः