३.८.१८

नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥

अन्वयः

नित्यम् always, शस्त्रम् weapon, परिवहन् while carrying, सः तपोधनः that sage, तपसि in penance, निश्चयम् his resolve, त्यक्त्वा after giving up, क्रमेण gradually, स्वाम् his, बुद्धिं intellect, रौद्रीम् fierce, चकार developed.

M N Dutt

Constantly carrying the sword, by degrees, the ascetic, foregoing all thoughts about asceticism, had his mind involved in fierce sentiments.

Summary

While the sage moved about holding the weapon, he gave up the practice of penance gradually and developed a violent mindset.

पदच्छेदः

नित्यंनित्यम् (अव्ययः)
शस्त्रंशस्त्र (२.१)
परिवहन्परिवहत् (√परि-वह् + शतृ, १.१)
क्रमेणक्रमेण (अव्ययः)
तद् (१.१)
तपोधनःतपोधन (१.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
रौद्रींरौद्र (२.१)
स्वांस्व (२.१)
बुद्धिंबुद्धि (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
तपसितपस् (७.१)
निश्चयम्निश्चय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि त्यं स्त्रंरि
न्क्र मे पो नः
का रौ द्रीं स्वां बु द्धिं
त्य क्त्वासि निश्च यम्