३.८.२५

अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम ।
यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ॥

अन्वयः

त्वम् you, राज्यम् kingdom, परित्यज्य having given up, निरतः permanent, मुनिः an ascetic, भवेः you, यदि if, मम to me, श्वश्रूश्वशुरयोः to motherinlaw and fatherinlaw, अक्षया unlimited, प्रीतिः joy, भवेत् will be.

M N Dutt

Then my mother-in-law and father-in-law shall experience enduring delight, if having renounced the kingdom, you lead the life of an ascetic.

Summary

You would have been on unlimited source of joy to my fatherinlaw and motherinlaw had you permanently renounced the kingdom for the life of an ascetic.

पदच्छेदः

अक्षयाअक्षय (१.१)
तुतु (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
प्रीतिःप्रीति (१.१)
श्वश्रूश्वशुरयोर्श्वश्रू–श्वशुर (६.२)
मममद् (६.१)
यदियदि (अव्ययः)
राज्यंराज्य (२.१)
हिहि (अव्ययः)
संन्यस्यसंन्यस्य (√संनि-अस् + ल्यप्)
भवेस्भवेः (√भू विधिलिङ् म.पु. )
त्वंत्वद् (१.१)
निरतोनिरत (√नि-रम् + क्त, १.१)
मुनिःमुनि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष यातु वे त्प्री तिः
श्व श्रूश्वशु योर्म
दि रा ज्यंहि सं न्यस्य
वे स्त्वंनि तोमु निः