३.८.२७

आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥

अन्वयः

निपुणैः by wisemen, आत्मानम् themselves, तैस्तै: by their various means, नियमैः by their discipline, प्रयत्नतः with effort, कर्शयित्वा after crushing, धर्मः righteousness, प्राप्यते is attained, सुखात् from happiness, सुखम् joy, न लभ्यते will not be attained.

M N Dutt

Repressing self by diverse restrictions, intelligent people attain righteousness; but virtue crowned with felicity, is incapable of being attained by following pleasure.

Summary

The wise earn dharma through getting their bodies emaciated by carefully adopting different means of discipline (selftorture). Happiness does not beget happiness.

पदच्छेदः

आत्मानंआत्मन् (२.१)
नियमैस्नियम (३.३)
तैस्तद् (३.३)
तैःतद् (३.३)
कर्षयित्वाकर्षयित्वा (√कर्षय् + क्त्वा)
प्रयत्नतःप्रयत्न (५.१)
प्राप्यतेप्राप्यते (√प्र-आप् प्र.पु. एक.)
निपुणैर्निपुण (३.३)
धर्मोधर्म (१.१)
(अव्ययः)
सुखाल्सुख (५.१)
लभ्यतेलभ्यते (√लभ् प्र.पु. एक.)
सुखम्सुख (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्मा नंनि मै स्तै स्तैः
र्ष यि त्वाप्रत्न तः
प्राप्य तेनिपु णै र्ध र्मो
सु खा ल्लभ्य तेसु खम्