३.८.४

मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ।
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ॥

अन्वयः

राघव Rama, मिथ्यावाक्यम् lie, ते to you, न भूतम् never practised, न भविष्यति nor in future, धर्मनाशनम् destroying the character, परेषाम् other's, स्त्रीणाम् women, अभिलषणम् such desire, कुतः how can it come to you.

Summary

O Rama you never spoke untruth in the past nor will you speak in future. How can there be any desire in you to destroy the virtue of others' wives ?

पदच्छेदः

मिथ्यावाक्यंमिथ्यावाक्य (१.१)
(अव्ययः)
तेत्वद् (४.१)
भूतंभूत (√भू + क्त, १.१)
(अव्ययः)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
राघवराघव (८.१)
कुतोकुतस् (अव्ययः)
ऽभिलषणंअभिलषण (१.१)
स्त्रीणांस्त्री (६.३)
परेषांपर (६.३)
धर्मनाशनम्धर्म–नाशन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मि थ्या वा क्यं ते भू तं
विष्यति रा
कु तोऽभि णं स्त्री णां
रे षांर्म ना नम्