३.९.१३

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ।
चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥

अन्वयः

वयम् we, तपःप्रभावेन by the power of penance, निशाचरान् nightrangers (demons), हन्तुम् to kill, कामं शक्ताः have the power, तु however, चिरार्जितम् earned over a long time, तपः penance, खण्डयितुम् to exhaust them, (वयम्) नेच्छामः we are not willing.

M N Dutt

We can by virtue of the energy of our asceticism easily destroy the rangers of the night; but we are loath to lose our asceticism earned in a long time. O Rāghava our austerities are constantly disturbed, and we can hardly perform thein.

पदच्छेदः

कामंकाम (२.१)
तपःप्रभावेनतपस्–प्रभाव (३.१)
शक्ताशक्त (√शक् + क्त, १.३)
हन्तुंहन्तुम् (√हन् + तुमुन्)
निशाचरान्निशाचर (२.३)
चिरार्जितंचिर–अर्जित (√अर्जय् + क्त, २.१)
तुतु (अव्ययः)
नेच्छामस् (अव्ययः)–इच्छामः (√इष् लट् उ.पु. द्वि.)
तपःतपस् (२.१)
खण्डयितुंखण्डयितुम् (√खण्डय् + तुमुन्)
वयम्मद् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का मं पःप्र भा वे
क्ता न्तुंनि शा रान्
चि रार्जि तंतु ने च्छा
स्त पःण्डयि तुं यम्