४.१.४७

एवं स विलपंस्तत्र शोकोपहतचेतनः ।
अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् ॥

पदच्छेदः

एवंएवम् (अव्ययः)
तद् (१.१)
विलपंस्विलपत् (√वि-लप् + शतृ, १.१)
तत्रतत्र (अव्ययः)
शोकोपहतचेतनःशोक–उपहत (√उप-हन् + क्त)–चेतना (१.१)
अवेक्षतअवेक्षत (√अव-ईक्ष् लङ् प्र.पु. एक.)
शिवांशिव (२.१)
पम्पांपम्पा (२.१)
रम्यवारिवहांरम्य–वारि–वह (२.१)
शुभाम्शुभ (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंवि पं स्तत्र
शो को चे नः
वेक्षशि वां म्पां
म्य वारि हांशु भाम्