४.१०.१३

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥

अन्वयः

अहत्वा without killing him, इतः from this place, पुरीम् town, प्रतिगन्तुम् to return, मे to me, शक्तिः energy, नास्ति is not, अहम् I, एनम् him, यावत् till that time, हन्मि I kill and return, त्वम् you, बिलद्वारि at the entrance, प्रतीक्ष you may wait.

M N Dutt

Without slaying (this Asura) I cannot return to the palace. Do you wait at the mouth of the cave while I slay him.

Summary

'I cannot return from here without killing him. Wait at the entrance of the cave until I kill him. Look forward to my return.

पदच्छेदः

अहत्वाअहत्वा (अव्ययः)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
मेमद् (६.१)
शक्तिःशक्ति (१.१)
प्रतिगन्तुम्प्रतिगन्तुम् (√प्रति-गम् + तुमुन्)
इतःइतस् (अव्ययः)
पुरीम्पुरी (२.१)
बिलद्वारिबिल–द्वार् (७.१)
प्रतीक्षप्रतीक्ष (√प्रति-ईक्ष् लोट् म.पु. )
त्वंत्वद् (१.१)
यावद्यावत् (अव्ययः)
एनंएनद् (२.१)
निहन्म्य्निहन्मि (√नि-हन् लट् उ.पु. )
अहम्मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वा नास्ति मे क्तिः
प्रतिन्तुमि तःपु रीम्
बि द्वा रिप्र ती क्ष त्वं
या दे नंनिन्म्य हम्