४.१०.१८

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥

अन्वयः

सुग्रीवेति saying O Sugriva , पुनः पुनः again and again, विक्रोशमानस्य shouting in distress, मे for me, यदा when, प्रतिवचः response, नास्ति was not heard, ततः then, अहम् I, भृशदुःखितः very sad.

M N Dutt

Then as I again and again cried Sugrīva, Sugrīva, I became exceedingly sorry for not receiving any reply.

Summary

'When there was no response from Sugriva to my repeated call in distress I was very sad.

पदच्छेदः

विक्रोशमानस्यविक्रोशमान (√वि-क्रुश् + शानच्, ६.१)
तुतु (अव्ययः)
मेमद् (६.१)
सुग्रीवेतिसुग्रीव (८.१)–इति (अव्ययः)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
यदायदा (अव्ययः)
प्रतिवचोप्रतिवचस् (१.१)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
ततोततस् (अव्ययः)
ऽहंमद् (१.१)
भृशदुःखितःभृश–दुःखित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि क्रो मास्यतु मे
सु ग्री वेतिपु नःपु नः
दाप्रति चो नास्ति
तो ऽहंभृ दुःखि तः