४.१०.१९

पादप्रहारैस्तु मया बहुशस्तद्विदारितम् ।
ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः ॥

अन्वयः

मया by me, बहुभिः by many, पादप्रहारैः kicks, विदारितम् broken, ततः then, अहम् I, तेन by that, यथा as, निष्क्रम्य after coming out, पुरः to city, उपागतः arrived.

M N Dutt

Thereat I threw down the stone after striking it many times with my legs. Then coming out by its mouth, I have come to this city.

Summary

'I kicked the boulder again and again till it yielded. I came out that way and arrived at the city.

पदच्छेदः

पादप्रहारैस्पाद–प्रहार (३.३)
तुतु (अव्ययः)
मयामद् (३.१)
बहुशस्बहुशस् (अव्ययः)
तद्तद् (१.१)
विदारितम्विदारित (√वि-दारय् + क्त, १.१)
ततोततस् (अव्ययः)
ऽहंमद् (१.१)
तेनतद् (३.१)
निष्क्रम्यनिष्क्रम्य (√निः-क्रम् + ल्यप्)
यथायथा (अव्ययः)
पुनर्पुनर् (अव्ययः)
उपागतःउपागत (√उपा-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पाप्र हा रैस्तु या
हु स्तद्वि दारि तम्
तो ऽहं ते नि ष्क्रम्य
थापुरु पा तः