४.११.१०

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥

अन्वयः

राजन् O king, ततः then, धर्मात्मा righteous self, महाबलः powerful समुद्रः ocean, समुत्थाय rising, कालचोदितम् driven to death by fate, असुरम् demon, वचनम् these words, अब्रवीत् spoke.

M N Dutt

Thereat the righteous-souled and mighty Ocean arose and, O king, said these words to that Asura, who had been urged by Death.

Summary

'O king, then the powerful and righteous king of the ocean came out and spoke to the demon (Dundubhi) who was driven to death by fate.'

पदच्छेदः

ततःततस् (अव्ययः)
समुद्रोसमुद्र (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
समुत्थायसमुत्थाय (√समुत्-स्था + ल्यप्)
महाबलःमहत्–बल (१.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचनंवचन (२.१)
राजन्न्राजन् (८.१)
असुरंअसुर (२.१)
कालचोदितम्काल–चोदित (√चोदय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः मु द्रो र्मा त्मा
मु त्था हा लः
ब्र वीद्व नं रा
न्नसु रं का चोदि तम्