४.११.११

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।
श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति ॥

अन्वयः

युद्धविशारद O warrior proficient in war, ते to you, युद्धम् war, दातुम् to offer (challenge), समर्थः not capable, नास्मि I am not, यः he who, ते to you, युद्धम् war, प्रदास्यति will give, अभिधास्यामि I can name him, श्रूयताम् listen.

M N Dutt

O you that are skilled in fight, I am not competent to offer you fight; but lister to me who will tell you who shall offer the fight.

Summary

'You are proficient in warfare. I am not competent enough to challenge you to a duel. But I will name the one who can.

पदच्छेदः

समर्थोसमर्थ (१.१)
नास्मि (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
तेत्वद् (४.१)
दातुंदातुम् (√दा + तुमुन्)
युद्धंयुद्ध (२.१)
युद्धविशारदयुद्ध–विशारद (८.१)
श्रूयताम्श्रूयताम् (√श्रु प्र.पु. एक.)
अभिधास्यामिअभिधास्यामि (√अभि-धा लृट् उ.पु. )
यस्यद् (१.१)
तेत्वद् (४.१)
युद्धंयुद्ध (२.१)
प्रदास्यतिप्रदास्यति (√प्र-दा लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्थो नास्मि ते दा तुं
यु द्धं युद्धवि शा
श्रू ताभि धा स्यामि
स्ते यु द्धंप्र दास्यति