४.११.२४

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥

अन्वयः

तदा then, सः दुन्दुभिः that Dundubhi, हिमवतः Himavan's, वाक्यम् words, श्रुत्वा on hearing, कोपाविष्टः seized with anger, तस्य his वालिनः Vali's, पुरीम् city, किष्किन्धाम् Kishkinda, जगाम went.

M N Dutt

Hearing Himavān's Himavān's words, Dundhubhi, inflamed with ire, went to Kişkindhā—Vāli's capital.

Summary

'Having heard Himavan, Dundubhi, seized with anger, went to Kishkindha, the city of Vali.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
हिमवतोहिमवन्त् (६.१)
वाक्यंवाक्य (२.१)
क्रोधाविष्टःक्रोध–आविष्ट (√आ-विश् + क्त, १.१)
तद् (१.१)
दुन्दुभिःदुन्दुभि (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
तांतद् (२.१)
पुरींपुरी (२.१)
तस्यतद् (६.१)
किष्किन्धांकिष्किन्धा (२.१)
वालिनस्वालिन् (६.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वाहि तो वा क्यं
क्रो धा वि ष्टः दुन्दु भिः
गा तांपु रींस्य
कि ष्कि न्धां वालिस्त दा