४.११.३०

किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि ।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ॥

अन्वयः

दुन्दुभे O Dundubhi, इदम् this, नगरद्वारम् entrance of the city, रुध्द्वा blocking, किमर्थम् for what reason, विनर्दसि are you roaring, मे to me, विदितः known, असि you are,महाबल O powerful one, प्राणान् life, रक्ष you may protect.

M N Dutt

O Dundhubhi, obstructing this my city-gate, why did you set up a terrible roar? Did you know my mighty strength? Do you save your own life.

Summary

'O Dundubhi why are you roaring, blocking the entrance of the city? I know you are powerful. Go and save your life.'

पदच्छेदः

किमर्थं (२.१)–अर्थ (२.१)
नगरद्वारम्नगर–द्वार (२.१)
इदंइदम् (२.१)
रुद्ध्वारुद्ध्वा (√रुध् + क्त्वा)
विनर्दसिविनर्दसि (√वि-नर्द् लट् म.पु. )
दुन्दुभेदुन्दुभि (८.१)
विदितोविदित (√विद् + क्त, १.१)
मेमद् (६.१)
ऽसिअसि (√अस् लट् म.पु. )
रक्षरक्ष (√रक्ष् लोट् म.पु. )
प्राणान्प्राण (२.३)
महाबलमहत्–बल (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कि र्थं द्वा
मि दं रु द्ध्वाविर्दसि
दुन्दु भेविदि तो मेऽसि
क्ष प्रा णान्म हा