४.११.४९

यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः ।
जानीयां त्वां महाबाहो समर्थं वालिनो वधे ॥

पदच्छेदः

यदियदि (अव्ययः)
भिन्द्याद्भिन्द्यात् (√भिद् विधिलिङ् प्र.पु. एक.)
भवान्भवत् (१.१)
सालान्साल (२.३)
इमांस्इदम् (२.३)
त्व्तु (अव्ययः)
एकेषुणाएक–इषु (३.१)
ततःततस् (अव्ययः)
जानीयांजानीयाम् (√ज्ञा विधिलिङ् उ.पु. )
त्वांत्वद् (२.१)
महाबाहोमहत्–बाहु (८.१)
समर्थंसमर्थ (२.१)
वालिनोवालिन् (६.१)
वधेवध (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि भि न्द्याद्भ वा न्सा ला
नि मां स्त्वे केषु णा तः
जा नी यां त्वां हा बा हो
र्थं वालि नो धे