४.१२.२

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ॥

अन्वयः

मानदः subduer of enemy's pride, सः he, घोरम् terrific, धनुः bow, पूरयन् filled, दिशः directions, ज्यास्वनैः by the twang, सालम् sala tree, उद्दिश्य aiming, एकम् single, शरम् arrow, चिक्षेप discharged

M N Dutt

That one, conferring honours upon others, holding his terrible bow and a shaft, darted it towards the Sāla, filling all the quarters with a sound,

Summary

Rama, subduer of the enemy's pride, strung his terrific bow, produced the twang that filled all directions, and discharged a single arrow aimed at the sala tree.

पदच्छेदः

तद् (१.१)
गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
धनुर्धनुस् (२.१)
घोरंघोर (२.१)
शरम्शर (२.१)
एकंएक (२.१)
(अव्ययः)
मानदःमानद (१.१)
सालान्साल (२.३)
उद्दिश्यउद्दिश्य (√उत्-दिश् + ल्यप्)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
ज्यास्वनैःज्या–स्वन (३.३)
पूरयन्पूरयत् (√पूरय् + शतृ, १.१)
दिशःदिश् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृ ही त्वा नु र्घो रं
मे कं मा दः
सा ला नु द्दिश्य चि क्षे
ज्यास्व नैः पून्दि शः