४.१२.२३

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः ।
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ॥

अन्वयः

वनम् grove, प्रविष्टम् entered, तम् him, दृष्ट्वा after seeing, महाद्युतिः effulgent, वाली Vali, त्वम् you, मुक्तः असि हि you have escaped, इति thus, उक्त्वा having said, शापभयात् by the fear of the curse, ततः then, निवृत्तः returned.

M N Dutt

Beholding him enter that forest, the highly powerful Vâli could not pursue him there for fear of the curse but said:-You are released today

Summary

Effulgent Vali saw Sugriva entering the (prohibited) grove and turned back due to the fear of the curse (of sage Matanga) saying, 'You have escaped'.

पदच्छेदः

तंतद् (२.१)
प्रविष्टंप्रविष्ट (√प्र-विश् + क्त, २.१)
वनंवन (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वालीवालिन् (१.१)
शापभयात्शाप–भय (५.१)
ततःततस् (अव्ययः)
मुक्तोमुक्त (√मुच् + क्त, १.१)
ह्य्हि (अव्ययः)
असिअसि (√अस् लट् म.पु. )
त्वम्त्वद् (१.१)
इत्य्इति (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
तद् (१.१)
निवृत्तोनिवृत्त (√नि-वृत् + क्त, १.१)
महाबलःमहत्–बल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंप्र वि ष्टं नं दृ ष्ट्वा
वा ली शा यात्त तः
मु क्तोह्य सित्व मि त्यु क्त्वा
नि वृ त्तो हा लः